Sukta 10.15
उदीरतामवर उत्परास उन्मध्यमाः पितरः सोम्यासः । असुं य ईयुरवृका ऋतज्ञास्ते नोऽवन्तु पितरो हवेषु ॥
उदी॑रता॒मव॑र॒ उत्परा॑स॒ उन्म॑ध्य॒माः पि॒तर॑: सो॒म्यास॑: । असुं॒ य ई॒युर॑वृ॒का ऋ॑त॒ज्ञास्ते नो॑ऽवन्तु पि॒तरो॒ हवे॑षु ॥
úd īratām ávare út parā́sa út madhyamā́ḥ pitáraḥ sómyāsaḥ | ásuṃ yá ī́yur avṛkā́ ṛtajñā́s té no ’vantu pitáro havéṣu ||
Que se alcen los Padres de abajo, que se alcen los de arriba, que se alcen los Padres del medio—los que se deleitan en el Soma. Los que partieron con el aliento de vida, sin daño, conocedores del ṛta—que esos Padres nos amparen en nuestras invocaciones.
उत् । ई॒र॒ता॒म् । अव॑रे । उत् । परा॑सः । उत् । म॒ध्य॒माः । पि॒तरः॑ । सो॒म्यासः॑ । असु॑म् । ये । ई॒युः । अ॒वृ॒काः । ऋ॒त॒ऽज्ञाः । ते । नः॒ । अ॒व॒न्तु॒ । पि॒तरः॑ । हवे॑षु ॥उत् । ईरताम् । अवरे । उत् । परासः । उत् । मध्यमाः । पितरः । सोम्यासः । असुम् । ये । ईयुः । अवृकाः । ऋतज्ञाः । ते । नः । अवन्तु । पितरः । हवेषु ॥ut | īratām | avare | ut | parāsaḥ | ut | madhyamāḥ | pitaraḥ | somyāsaḥ | asum | ye | īyuḥ | avṛkāḥ | ṛta-jñāḥ | te | naḥ | avantu | pitaraḥ | haveṣu