Sukta 1.185
इदं द्यावापृथिवी सत्यमस्तु पितर्मातर्यदिहोपब्रुवे वाम् । भूतं देवानामवमे अवोभिर्विद्यामेषं वृजनं जीरदानुम् ॥
इ॒दं द्या॑वापृथिवी स॒त्यम॑स्तु॒ पित॒र्मात॒र्यदि॒होप॑ब्रु॒वे वा॑म् । भू॒तं दे॒वाना॑मव॒मे अवो॑भिर्वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुम् ॥
idáṃ dyāvāpṛthivī satyám astu pitár mātár yád ihópabruvé vām | bhūtáṃ devā́nām avamé ávobhir vidyā́meṣáṃ vṛ́janaṃ jīrádānum ||
Oh Cielo-y-Tierra, Padre y Madre, sea verdadero lo que aquí os digo. Sed para nosotros los más cercanos de los dioses con vuestras potencias nutricias, para que conozcamos el impulso y el sendero victorioso, y al dador cuyas dádivas perduran.
इ॒दम् । द्या॒वा॒पृ॒थि॒वी॒ इति॑ । स॒त्यम् । अ॒स्तु॒ । पितः॑ । मातः॑ । यत् । इ॒ह । उ॒प॒ऽब्रु॒वे । वा॒म् । भू॒तम् । दे॒वाना॑म् । अ॒व॒मे इति॑ । अवः॑ऽभिर् । वि॒द्याम॑ । इ॒षम् । वृ॒जन॑म् । जी॒रऽदा॑नुम् ॥इदम् । द्यावापृथिवी इति । सत्यम् । अस्तु । पितः । मातः । यत् । इह । उपब्रुवे । वाम् । भूतम् । देवानाम् । अवमे इति । अवःभिर् । विद्याम । इषम् । वृजनम् । जीरदानुम् ॥idam | dyāvāpṛthivī iti | satyam | astu | pitaḥ | mātaḥ | yat | iha | upa-bruve | vām | bhūtam | devānām | avame iti | avaḥ-bhir | vidyāma | iṣam | vṛjanam | jīra-dānum