Sukta 1.169
प्रति प्र याहीन्द्र मीळ्हुषो नॄन्महः पार्थिवे सदने यतस्व । अध यदेषां पृथुबुध्नास एतास्तीर्थे नार्यः पौंस्यानि तस्थुः ॥
प्रति॒ प्र या॑हीन्द्र मी॒ळ्हुषो॒ नॄन्म॒हः पार्थि॑वे॒ सद॑ने यतस्व । अध॒ यदे॑षां पृथुबु॒ध्नास॒ एता॑स्ती॒र्थे नार्यः पौंस्या॑नि त॒स्थुः ॥
práti prá yāhīndra mīḷhúṣo nṝ́n maháḥ pārthíve sádane yatasva | ádha yád eṣāṃ pṛthubudh́nāsa étās tīrthé nā́ryaḥ paúṃsyāni tasthúḥ ||
Avanza, avanza, oh Indra, hacia los hombres dadores (mīḷhuṣ), hacia las grandes energías humanas; toma tu puesto en la sede terrenal. Entonces, cuando sus poderes de amplia base se mantengan firmes en el vado, que allí, en el cruce, queden asentadas las fuerzas varoniles del buscador.
प्रति॑ । प्र । या॒हि॒ । इ॒न्द्र॒ । मी॒ळ्हुषः॑ । नॄन् । म॒हः । पार्थि॑वे । सद॑ने । य॒त॒स्व॒ । अध॑ । यत् । ए॒षा॒म् । पृ॒थु॒ऽबु॒ध्नासः॑ । एताः॑ । ती॒र्थे । न । अ॒र्यः । पौंस्या॑नि । त॒स्थुः ॥प्रति । प्र । याहि । इन्द्र । मीळ्हुषः । नॄन् । महः । पार्थिवे । सदने । यतस्व । अध । यत् । एषाम् । पृथुबुध्नासः । एताः । तीर्थे । न । अर्यः । पौंस्यानि । तस्थुः ॥prati | pra | yāhi | indra | mīḷhuṣaḥ | nṝn | mahaḥ | pārthive | sadane | yatasva | adha | yat | eṣām | pṛthu-budhnāsaḥ | etāḥ | tīrthe | na | aryaḥ | paiṃsyāni | tasthuḥ