Sukta 1.168
अव स्वयुक्ता दिव आ वृथा ययुरमर्त्याः कशया चोदत त्मना । अरेणवस्तुविजाता अचुच्यवुर्दृळ्हानि चिन्मरुतो भ्राजदृष्टयः ॥
अव॒ स्वयु॑क्ता दि॒व आ वृथा॑ ययु॒रम॑र्त्या॒: कश॑या चोदत॒ त्मना॑ । अ॒रे॒णव॑स्तुविजा॒ता अ॑चुच्यवुर्दृ॒ळ्हानि॑ चिन्म॒रुतो॒ भ्राज॑दृष्टयः ॥
áva svayúktā divá ā́ vṛ́thā yayur amartyā́ḥ káśayā codata tmánā | areṇávás tuvi-jātā́ acucyavur dṛḷhā́ni cin marúto bhrā́jad-ṛṣṭayaḥ ||
Desde el cielo, uncidos por sí mismos, han bajado con presteza —los Inmortales— impulsados por el látigo de su propio ser. Sin mancha, nacidos con gran poder, los Maruts de lanzas resplandecientes han sacudido incluso lo firmemente asentado.
अव॑ । स्वऽयु॑क्ताः । दि॒वः । आ । वृथा॑ । य॒युः॒ । अम॑र्त्याः । कश॑या । चो॒द॒त॒ । त्मना॑ । अ॒रे॒णवः॑ । तु॒वि॒ऽजा॒ताः । अ॒चु॒च्य॒वुः॒ । दृ॒ळ्हानि॑ । चि॒त् । म॒रुतः॑ । भ्राज॑द्ऽऋष्टयः ॥अव । स्वयुक्ताः । दिवः । आ । वृथा । ययुः । अमर्त्याः । कशया । चोदत । त्मना । अरेणवः । तुविजाताः । अचुच्यवुः । दृळ्हानि । चित् । मरुतः । भ्राजद्ऋष्टयः ॥ava | sva-yuktāḥ | divaḥ | ā | vṛthā | yayuḥ | amartyāḥ | kaśayā | codata | tmanā | areṇavaḥ | tuvi-jātāḥ | acucyavuḥ | dṛḷhāni | cit | marutaḥ | bhrājad-ṛṣṭayaḥ