Sukta 1.164
अयं स शिङ्क्ते येन गौरभीवृता मिमाति मायुं ध्वसनावधि श्रिता । सा चित्तिभिर्नि हि चकार मर्त्यं विद्युद्भवन्ती प्रति वव्रिमौहत ॥
अ॒यं स शि॑ङ्क्ते॒ येन॒ गौर॒भीवृ॑ता॒ मिमा॑ति मा॒युं ध्व॒सना॒वधि॑ श्रि॒ता । सा चि॒त्तिभि॒र्नि हि च॒कार॒ मर्त्यं॑ वि॒द्युद्भव॑न्ती॒ प्रति॑ व॒व्रिमौ॑हत ॥
ayaṁ sá śiṅkte yéna gáur abhívṛtā mimāti māyúṁ dhvasánāv ádhi śritā | sā cittíbhir ní hí cakāra mártyaṁ vidyúdbhavantī práti vavrím auhata ||
Esta es aquella Potencia por la cual la Vaca (el rayo luminoso de la conciencia), al estar cercada, mide su clamor de anhelo, apoyada en las dos piedras de prensar. Ella, volviéndose relámpago de visión, por sus despertares en verdad modela al mortal y rechaza la envoltura que lo ciñe.
अयम् । सः । शि॒ङ्क्ते॒ । येन॑ । गौः । अ॒भिऽवृ॑ता । मिमा॑ति । मा॒युम् । ध्व॒सनौ॑ । अधि॑ । श्रि॒ता । सा । चि॒त्तिऽभिः॑ । नि । हि । च॒कार॑ । मर्त्य॑म् । वि॒ऽद्युत् । भव॑न्ती । प्रति॑ । व॒व्रिम् । औ॒ह॒त॒ ॥अयम् । सः । शिङ्क्ते । येन । गौः । अभिवृता । मिमाति । मायुम् । ध्वसनौ । अधि । श्रिता । सा । चित्तिभिः । नि । हि । चकार । मर्त्यम् । विद्युत् । भवन्ती । प्रति । वव्रिम् । औहत ॥ayam | saḥ | śiṅkte | yena | gauḥ | abhi-vṛṭā | mimāti | māyum | dhvasanau | adhi | śritā | sā | citti-bhiḥ | ni | hi | cakāra | martyam | vi-dyut | bhavantī | prati | vavrim | auhata