Sukta 1.164
अवः परेण पर एनावरेण पदा वत्सं बिभ्रती गौरुदस्थात् । सा कद्रीची कं स्विदर्धं परागात्क्व स्वित्सूते नहि यूथे अन्तः ॥
अ॒वः परे॑ण प॒र ए॒नाव॑रेण प॒दा व॒त्सं बिभ्र॑ती॒ गौरुद॑स्थात् । सा क॒द्रीची॒ कं स्वि॒दर्धं॒ परा॑गा॒त्क्व॑ स्वित्सूते न॒हि यू॒थे अ॒न्तः ॥
aváḥ páreṇa pará enā́váreṇa padā́ vátsaṁ bíbhratī gáur úd asthāt | sā́ kadrī́cī káṁ svíd árdhaṁ párāgāt kvà svit sū́te náhi yū́the antáḥ ||
Con el pie más lejano abajo, con el pie más cercano arriba, la Vaca se alzó, llevando al Ternero. ¿Adónde ha ido, avanzando por un sendero oculto—qué mitad ha traspasado más allá? ¿Dónde pare, pues no está dentro del rebaño?
अ॒वः । परे॑ण । प॒रः । ए॒ना । अव॑रेण । प॒दा । व॒त्सम् । बिभ्र॑ती । गौः । उत् । अ॒स्था॒त् । सा । क॒द्रीची॑ । कम् । स्वि॒त् । अर्ध॑म् । परा॑ । अ॒गा॒त् । क्व॑ । स्वि॒त् । सू॒ते॒ । न॒हि । यू॒थे । अ॒न्तरिति॑ ॥अवः । परेण । परः । एना । अवरेण । पदा । वत्सम् । बिभ्रती । गौः । उत् । अस्थात् । सा । कद्रीची । कम् । स्वित् । अर्धम् । परा । अगात् । क्व । स्वित् । सूते । नहि । यूथे । अन्तरिति ॥avaḥ | pareṇa | paraḥ | enā | avareṇa | padā | vatsam | bibhratī | gauḥ | ut | asthāt | sā | kadrīcī | kam | svit | ardham | parā | agāt | kva | svit | sūte | nahi | yūthe | antari ti