Sukta 9.96
परि प्रियः कलशे देववात इन्द्राय सोमो रण्यो मदाय । सहस्रधारः शतवाज इन्दुर्वाजी न सप्तिः समना जिगाति ॥
परि॑ प्रि॒यः क॒लशे॑ दे॒ववा॑त॒ इन्द्रा॑य॒ सोमो॒ रण्यो॒ मदा॑य । स॒हस्र॑धारः श॒तवा॑ज॒ इन्दु॑र्वा॒जी न सप्ति॒: सम॑ना जिगाति ॥
pári priyáḥ kalaśé deva-vā́ta índrāya sómo ráṇyo mádāya | sahásra-dhāraḥ śatá-vāja índur vājī́ ná saptíḥ sámanā jigāti ||
The beloved Soma, driven by the gods’ breath, streams around into the vessel for Indra’s rapture. Thousand-streamed, hundred-powered, the bright drop hastens like a prize-winning steed, reaching the common goal—swiftly carrying the seeker toward plenitude of force.
परि॑ । प्रि॒यः । क॒लशे॑ । दे॒वऽवा॑तः । इन्द्रा॑य । सोमः॑ । रण्यः॑ । मदा॑य । स॒हस्र॑ऽधारः । श॒तऽवा॑जः । इन्दुः॑ । वा॒जी । न । सप्तिः॑ । सम॑ना । जि॒गा॒ति॒ ॥परि । प्रियः । कलशे । देववातः । इन्द्राय । सोमः । रण्यः । मदाय । सहस्रधारः । शतवाजः । इन्दुः । वाजी । न । सप्तिः । समना । जिगाति ॥pari | priyaḥ | kalaśe | deva-vātaḥ | indrāya | somaḥ | raṇyaḥ | madāya | sahasra-dhāraḥ | śata-vājaḥ | induḥ | vājī | na | saptiḥ | samanā | jigāti