Sukta 9.96
सोमः पवते जनिता मतीनां जनिता दिवो जनिता पृथिव्याः । जनिताग्नेर्जनिता सूर्यस्य जनितेन्द्रस्य जनितोत विष्णोः ॥
सोम॑: पवते जनि॒ता म॑ती॒नां ज॑नि॒ता दि॒वो ज॑नि॒ता पृ॑थि॒व्याः । ज॒नि॒ताग्नेर्ज॑नि॒ता सूर्य॑स्य जनि॒तेन्द्र॑स्य जनि॒तोत विष्णो॑: ॥
sómaḥ pavate janitā́ matīnā́ṃ janitā́ divó janitā́ pṛthivyā́ḥ | janitā́gner janitā́ sū́ryasya janiténdrasya janitó uta víṣṇoḥ ||
Soma flows purified, the begetter of inspired thoughts; the begetter of heaven, the begetter of earth; the begetter of Agni, the begetter of Surya; the begetter of Indra, and even the begetter of Vishnu—because the delight-essence, when clarified, brings forth within us the very powers of light and right action.
सोमः॑ । प॒व॒ते॒ । ज॒नि॒ता । म॒ती॒नाम् । ज॒नि॒ता । दि॒वः । ज॒नि॒ता । पृ॒थि॒व्याः । ज॒नि॒ता । अ॒ग्नेः । ज॒नि॒ता । सूर्य॑स्य । ज॒नि॒ता । इन्द्र॑स्य । ज॒नि॒ता । उ॒त । विष्णोः॑ ॥सोमः । पवते । जनिता । मतीनाम् । जनिता । दिवः । जनिता । पृथिव्याः । जनिता । अग्नेः । जनिता । सूर्यस्य । जनिता । इन्द्रस्य । जनिता । उत । विष्णोः ॥somaḥ | pavate | janitā | matīnām | janitā | divaḥ | janitā | pṛthivyāḥ | janitā | agneḥ | janitā | sūryasya | janitā | indrasya | janitā | uta | viṣṇoḥ