Sukta 9.96
स पूर्व्यो वसुविज्जायमानो मृजानो अप्सु दुदुहानो अद्रौ । अभिशस्तिपा भुवनस्य राजा विदद्गातुं ब्रह्मणे पूयमानः ॥
स पू॒र्व्यो व॑सु॒विज्जाय॑मानो मृजा॒नो अ॒प्सु दु॑दुहा॒नो अद्रौ॑ । अ॒भि॒श॒स्ति॒पा भुव॑नस्य॒ राजा॑ वि॒दद्गा॒तुं ब्रह्म॑णे पू॒यमा॑नः ॥
sá pū́rvyo vasu-víj jā́yamāno mṛjānáḥ apsú duduhānáḥ ádrau | abhiśastí-pā bhuvánasya rā́jā vidád gātúṃ bráhmaṇe pū́yamānaḥ ||
He, the ancient one, knower-finder of the riches, is born again; cleansed in the waters, milked out upon the stone. Guardian against hostile word and assault, king of the world, as he is purified he finds the path for the Word—opening the way for the mantra to embody truth.
सः । पू॒र्व्यः । व॒सु॒ऽवित् । जाय॑मानः । मृ॒जा॒नः । अ॒प्ऽसु । दु॒दु॒हा॒नः । अद्रौ॑ । अ॒भि॒श॒स्ति॒ऽपाः । भुव॑नस्य । राजा॑ । वि॒दत् । गा॒तुम् । ब्रह्म॑णे । पू॒यमा॑नः ॥सः । पूर्व्यः । वसुवित् । जायमानः । मृजानः । अप्सु । दुदुहानः । अद्रौ । अभिशस्तिपाः । भुवनस्य । राजा । विदत् । गातुम् । ब्रह्मणे । पूयमानः ॥saḥ | pūrvyaḥ | vasu-vit | jāyamānaḥ | mṛjānaḥ | ap-su | duduhānaḥ | adrau | abhiśasti-pāḥ | bhuvanasya | rājā | vidat | gātum | brahmaṇe | pūyamānaḥ