Sukta 9.96
अजीतयेऽहतये पवस्व स्वस्तये सर्वतातये बृहते । तदुशन्ति विश्व इमे सखायस्तदहं वश्मि पवमान सोम ॥
अजी॑त॒येऽह॑तये पवस्व स्व॒स्तये॑ स॒र्वता॑तये बृह॒ते । तदु॑शन्ति॒ विश्व॑ इ॒मे सखा॑य॒स्तद॒हं व॑श्मि पवमान सोम ॥
ajī́taye áhātaye pavasva svastáye sarva-tā́taye bṛhaté | tád uśánti víśva imé sákḥāyas tád aháṃ vaśmi pavamāna soma ||
Purify yourself for invincibility and unassailability, for well-being, for the totality of our perfection, for the vast. All these comrades desire that; that very thing I will for, O Soma, as you purify and flow.
अजी॑तये । अह॑तये । प॒व॒स्व॒ । स्व॒स्तये॑ । स॒र्वऽता॑तये । बृ॒ह॒ते । तत् । उ॒श॒न्ति॒ । विश्वे॑ । इ॒मे । सखा॑यः । तत् । अ॒हम् । व॒श्मि॒ । प॒व॒मा॒न॒ । सो॒म॒ ॥अजीतये । अहतये । पवस्व । स्वस्तये । सर्वतातये । बृहते । तत् । उशन्ति । विश्वे । इमे । सखायः । तत् । अहम् । वश्मि । पवमान । सोम ॥ajītaye | ahataye | pavasva | svastaye | sarva-tātaye | bṛhate | tat | uśanti | viśve | ime | sakhāyaḥ | tat | aham | vaśmi | pavamāna | soma