Sukta 9.96
स नो देव देवताते पवस्व महे सोम प्सरस इन्द्रपानः । कृण्वन्नपो वर्षयन्द्यामुतेमामुरोरा नो वरिवस्या पुनानः ॥
स नो॑ देव दे॒वता॑ते पवस्व म॒हे सो॑म॒ प्सर॑स इन्द्र॒पान॑: । कृ॒ण्वन्न॒पो व॒र्षय॒न्द्यामु॒तेमामु॒रोरा नो॑ वरिवस्या पुना॒नः ॥
sá no deva deva-tā́te pavasva mahé soma psárase indra-pā́naḥ | kṛṇván apó varṣáyan dyā́m utémām urórā no varivasyā punānáḥ ||
O god Soma, purify yourself for us into the divine status, for the great wideness, as Indra’s drink. Making the waters and raining the heaven—and this broad earth as well—when you are purified, open for us the spacious paths of being.
सः । नः॒ । दे॒व॒ । दे॒वऽता॑ते । प॒व॒स्व॒ । म॒हे । सो॒म॒ । प्सर॑से । इ॒न्द्र॒ऽपानः॑ । कृ॒ण्वन् । अ॒पः । व॒र्षय॑न् । द्याम् । उ॒त । इ॒माम् । उ॒रोः । आ । नः॒ । व॒रि॒व॒स्य॒ । पु॒ना॒नः ॥सः । नः । देव । देवताते । पवस्व । महे । सोम । प्सरसे । इन्द्रपानः । कृण्वन् । अपः । वर्षयन् । द्याम् । उत । इमाम् । उरोः । आ । नः । वरिवस्य । पुनानः ॥saḥ | naḥ | deva | deva-tāte | pavasva | mahe | soma | psarase | indra-pānaḥ | kṛṇvan | apaḥ | varṣayan | dyām | uta | imām | uroḥ | ā | naḥ | varivasya | punānaḥ