Sukta 9.96
प्र सेनानीः शूरो अग्रे रथानां गव्यन्नेति हर्षते अस्य सेना । भद्रान्कृण्वन्निन्द्रहवान्त्सखिभ्य आ सोमो वस्त्रा रभसानि दत्ते ॥
प्र से॑ना॒नीः शूरो॒ अग्रे॒ रथा॑नां ग॒व्यन्ने॑ति॒ हर्ष॑ते अस्य॒ सेना॑ । भ॒द्रान्कृ॒ण्वन्नि॑न्द्रह॒वान्त्सखि॑भ्य॒ आ सोमो॒ वस्त्रा॑ रभ॒सानि॑ दत्ते ॥
prá senānī́ḥ śū́ro ágre ráthānāṃ gavyánn eti hárṣate asya sénā | bhadrā́n kṛṇván indra-havā́n sákhibhya ā́ sómo vástrā rabhasā́ni dátte ||
Forward moves Soma, the heroic leader at the head of the chariots, seeking the luminous herds (rays of knowledge); his inner host rejoices. Creating auspiciousness and calling Indra’s force, Soma gives to the comrades eager vestures—new coverings of light and power for the soul’s advance.
प्र । से॒ना॒ऽनीः । शूरः॑ । अग्रे॑ । रथा॑नाम् । ग॒व्यन् । ए॒ति॒ । हर्ष॑ते । अ॒स्य॒ । सेना॑ । भ॒द्रान् । कृ॒ण्वन् । इ॒न्द्र॒ऽह॒वान् । सखि॑ऽभ्यः । आ । सोमः॑ । वस्त्रा॑ । र॒भ॒सानि॑ । द॒त्ते॒ ॥प्र । सेनानीः । शूरः । अग्रे । रथानाम् । गव्यन् । एति । हर्षते । अस्य । सेना । भद्रान् । कृण्वन् । इन्द्रहवान् । सखिभ्यः । आ । सोमः । वस्त्रा । रभसानि । दत्ते ॥pra | senānīḥ | śūraḥ | agre | rathānām | gavyan | eti | harṣate | asya | senā | bhadrān | kṛṇvan | indra-havān | sakhi-bhyaḥ | ā | somaḥ | vastrā | rabhasāni | datte