Sukta 9.96
अपघ्नन्नेषि पवमान शत्रून्प्रियां न जारो अभिगीत इन्दुः । सीदन्वनेषु शकुनो न पत्वा सोमः पुनानः कलशेषु सत्ता ॥
अ॒प॒घ्नन्ने॑षि पवमान॒ शत्रू॑न्प्रि॒यां न जा॒रो अ॒भिगी॑त॒ इन्दु॑: । सीद॒न्वने॑षु शकु॒नो न पत्वा॒ सोम॑: पुना॒नः क॒लशे॑षु॒ सत्ता॑ ॥
apághnann eṣi pavamāna śátrūn priyā́ṃ na jā́ro abhígīta índuḥ | sī́dan váneṣu śakunó na patvā́ sómaḥ punānáḥ kalaśéṣu sattā́ ||
Smiting the enemies, thou goest, O Pavamāna; like a lover sung to by his beloved, the bright drop is acclaimed. Settling in the wooden vessels like a bird that has flown, Soma, purified, takes his seat in the jars.
अ॒प॒ऽघ्नन् । ए॒षि॒ । प॒व॒मा॒न॒ । शत्रू॑न् । प्रि॒याम् । न । जा॒रः । अ॒भिऽगी॑तः । इन्दुः॑ । सीद॑न् । वने॑षु । श॒कु॒नः । न । पत्वा॑ । सोमः॑ । पु॒ना॒नः । क॒लशे॑षु । सत्ता॑ ॥अपघ्नन् । एषि । पवमान । शत्रून् । प्रियाम् । न । जारः । अभिगीतः । इन्दुः । सीदन् । वनेषु । शकुनः । न । पत्वा । सोमः । पुनानः । कलशेषु । सत्ता ॥apa-ghnan | eṣi | pavamāna | śatrūn | priyām | na | jāraḥ | abhi-gītaḥ | induḥ | sīdan | vaneṣu | śakunaḥ | na | patvā | somaḥ | punānaḥ | kalaśeṣu | sattā