Sukta 9.96
प्रास्य धारा बृहतीरसृग्रन्नक्तो गोभिः कलशाँ आ विवेश । साम कृण्वन्त्सामन्यो विपश्चित्क्रन्दन्नेत्यभि सख्युर्न जामिम् ॥
प्रास्य॒ धारा॑ बृह॒तीर॑सृग्रन्न॒क्तो गोभि॑: क॒लशाँ॒ आ वि॑वेश । साम॑ कृ॒ण्वन्त्सा॑म॒न्यो॑ विप॒श्चित्क्रन्द॑न्नेत्य॒भि सख्यु॒र्न जा॒मिम् ॥
prā́sya dhā́rā bṛhatī́r asṛgran aktó góbhih kalaśā́m̐ ā́ viveśa | sā́ma kṛṇvā́nt sāmanyó vipaścit krándann ety abhí sakhyúr ná jāmím ||
Forth from him the great streams have run; anointed with the Rays he has entered the jars. Making the chant—master of harmony, the seer of discernment—crying aloud he goes toward his kin as toward a friend.
प्र । अ॒स्य॒ । धाराः॑ । बृ॒ह॒तीः । अ॒सृ॒ग्र॒न् । अ॒क्तः । गोभिः॑ । क॒लशा॑न् । आ । वि॒वे॒श॒ । साम॑ । कृ॒ण्वन् । सा॒म॒न्यः॑ । वि॒पः॒ऽचित् । क्रन्द॑न् । ए॒ति॒ । अ॒भि । सख्युः॑ । न । जा॒मिम् ॥प्र । अस्य । धाराः । बृहतीः । असृग्रन् । अक्तः । गोभिः । कलशान् । आ । विवेश । साम । कृण्वन् । सामन्यः । विपःचित् । क्रन्दन् । एति । अभि । सख्युः । न । जामिम् ॥pra | asya | dhārāḥ | bṛhatīḥ | asṛgran | aktaḥ | gobhiḥ | kalaśān | ā | viveśa | sāma | kṛṇvan | sāmanyaḥ | vipaḥ-cit | krandan | eti | abhi | sakhyuḥ | na | jāmim