Sukta 9.96
आ ते रुचः पवमानस्य सोम योषेव यन्ति सुदुघाः सुधाराः । हरिरानीतः पुरुवारो अप्स्वचिक्रदत्कलशे देवयूनाम् ॥
आ ते॒ रुच॒: पव॑मानस्य सोम॒ योषे॑व यन्ति सु॒दुघा॑: सुधा॒राः । हरि॒रानी॑तः पुरु॒वारो॑ अ॒प्स्वचि॑क्रदत्क॒लशे॑ देवयू॒नाम् ॥
ā́ te rúcaḥ pávamānasya soma yóṣeva yanti su-dúghāḥ su-dhārā́ḥ | hárir ā́nītaḥ puru-vā́ro apsv ácikradat kalaśé deva-yūnā́m ||
To thee, O Soma in purification, thy radiances come like well-milking women, rich in good streams. The tawny one, led forward, much desired, has resounded in the waters—in the jar of those who seek the gods.
आ । ते॒ । रुचः॑ । पव॑मानस्य । सो॒म॒ । योषा॑ऽइव । य॒न्ति॒ । सु॒ऽदुघाः॑ । सु॒ऽधा॒राः । हरिः॑ । आनी॑तः । पु॒रु॒ऽवारः॑ । अ॒प्ऽसु । अचि॑क्रदत् । क॒लशे॑ । दे॒व॒ऽयू॒नाम् ॥आ । ते । रुचः । पवमानस्य । सोम । योषाइव । यन्ति । सुदुघाः । सुधाराः । हरिः । आनीतः । पुरुवारः । अप्सु । अचिक्रदत् । कलशे । देवयूनाम् ॥ā | te | rucaḥ | pavamānasya | soma | yoṣā-iva | yanti | su-dughāḥ | su-dhārāḥ | hariḥ | ānītaḥ | puru-vāraḥ | ap-su | acikradat | kalaśe | deva-yūnām