Sukta 9.96
पवस्वेन्दो पवमानो महोभिः कनिक्रदत्परि वाराण्यर्ष । क्रीळञ्चम्वोरा विश पूयमान इन्द्रं ते रसो मदिरो ममत्तु ॥
पव॑स्वेन्दो॒ पव॑मानो॒ महो॑भि॒: कनि॑क्रद॒त्परि॒ वारा॑ण्यर्ष । क्रीळ॑ञ्च॒म्वो॒३॒॑रा वि॑श पू॒यमा॑न॒ इन्द्रं॑ ते॒ रसो॑ मदि॒रो म॑मत्तु ॥
pávāsv endo pávamāno máhobhiḥ kánikradat pári vā́rāṇy arṣa | krī́ḷañ camvór ā́ viśa pūyámāna índraṃ te ráso madíro mamattu ||
Flow, O Indu, flowing in thy vast mights; neighing with delight, rush around the woolen straining-fleeces. Sporting, enter the two bowls in thy purification; may thy intoxicating essence gladden Indra.
पव॑स्व । इ॒न्दो॒ इति॑ । पव॑मानः । महः॑ऽभिः । कनि॑क्रदत् । परि॑ । वारा॑णि । अ॒र्ष॒ । क्रीळ॑न् । च॒म्वोः॑ । आ । वि॒श॒ । पू॒यमा॑नः । इन्द्र॑म् । ते॒ । रसः॑ । म॒दि॒रः । म॒म॒त्तु॒ ॥पवस्व । इन्दो इति । पवमानः । महःभिः । कनिक्रदत् । परि । वाराणि । अर्ष । क्रीळन् । चम्वोः । आ । विश । पूयमानः । इन्द्रम् । ते । रसः । मदिरः । ममत्तु ॥pavasva | indo iti | pavamānaḥ | mahaḥ-bhiḥ | kanikradat | pari | vārāṇi | arṣa | krīḷan | camvoḥ | ā | viśa | pūyamānaḥ | indram | te | rasaḥ | madiraḥ | mamattu