Sukta 9.96
मर्यो न शुभ्रस्तन्वं मृजानोऽत्यो न सृत्वा सनये धनानाम् । वृषेव यूथा परि कोशमर्षन्कनिक्रदच्चम्वोरा विवेश ॥
मर्यो॒ न शु॒भ्रस्त॒न्वं॑ मृजा॒नोऽत्यो॒ न सृत्वा॑ स॒नये॒ धना॑नाम् । वृषे॑व यू॒था परि॒ कोश॒मर्ष॒न्कनि॑क्रदच्च॒म्वो॒३॒॑रा वि॑वेश ॥
maryó na śúbhras tanvàṃ mṛjāno ’tyó na sṛ́tvā sanáye dhánānām | vṛ́ṣeva yū́thā pári kóśam árṣan kánikradac camvór ā́ viveśa ||
Like a radiant youth cleansing his own body, like a racer speeding to win the riches, he rushes around the vessel as a bull around the herds; neighing with joy, he enters the two bowls.
मर्यः॑ । न । शु॒भ्रः । त॒न्व॑म् । मृ॒जा॒नः । अत्यः॑ । न । सृत्वा॑ । स॒नये॑ । धना॑नाम् । वृषा॑ऽइव । यू॒था । परि॑ । कोश॑म् । अर्ष॑न् । कनि॑क्रदत् । च॒म्वोः॑ । आ । वि॒वे॒श॒ ॥मर्यः । न । शुभ्रः । तन्वम् । मृजानः । अत्यः । न । सृत्वा । सनये । धनानाम् । वृषाइव । यूथा । परि । कोशम् । अर्षन् । कनिक्रदत् । चम्वोः । आ । विवेश ॥maryaḥ | na | śubhraḥ | tanvam | mṛjānaḥ | atyaḥ | na | sṛtvā | sanaye | dhanānām | vṛṣā-iva | yūthā | pari | kośam | arṣan | kanikradat | camvoḥ | ā | viveśa