Sukta 9.96
चमूषच्छ्येनः शकुनो विभृत्वा गोविन्दुर्द्रप्स आयुधानि बिभ्रत् । अपामूर्मिं सचमानः समुद्रं तुरीयं धाम महिषो विवक्ति ॥
च॒मू॒षच्छ्ये॒नः श॑कु॒नो वि॒भृत्वा॑ गोवि॒न्दुर्द्र॒प्स आयु॑धानि॒ बिभ्र॑त् । अ॒पामू॒र्मिं सच॑मानः समु॒द्रं तु॒रीयं॒ धाम॑ महि॒षो वि॑वक्ति ॥
camūṣác chyenáḥ śakunó vibhṛ́tvā govíndur drápsa ā́yudhāni bíbhrat | apā́m ū́rmiṃ sácamānaḥ samudráṃ turī́yaṃ dhā́ma mahíṣo vivakti ||
Perched on the ladles, the falcon-bird, bearing his weapons—this drop that finds the Cow (the Ray)—moves with the wave of the waters toward the ocean; the great Bull discloses the fourth abode.
च॒मू॒ऽसत् । श्ये॒नः । श॒कु॒नः । वि॒ऽभृत्वा॑ । गो॒ऽवि॒न्दुः । द्र॒प्सः । आयु॑धानि । बिभ्र॑त् । अ॒पाम् । ऊ॒र्मिम् । सच॑मानः । स॒मु॒द्रम् । तु॒रीय॑म् । धाम॑ । म॒हि॒षः । वि॒व॒क्ति॒ ॥चमूसत् । श्येनः । शकुनः । विभृत्वा । गोविन्दुः । द्रप्सः । आयुधानि । बिभ्रत् । अपाम् । ऊर्मिम् । सचमानः । समुद्रम् । तुरीयम् । धाम । महिषः । विवक्ति ॥camū-sat | śyenaḥ | śakunaḥ | vi-bhṛtvā | go-vinduḥ | drapsaḥ | āyudhāni | bibhrat | apām | ūrmim | sacamānaḥ | samudram | turīyam | dhāma | mahiṣaḥ | vivakti