Sukta 9.96
ऋषिमना य ऋषिकृत्स्वर्षाः सहस्रणीथः पदवीः कवीनाम् । तृतीयं धाम महिषः सिषासन्त्सोमो विराजमनु राजति ष्टुप् ॥
ऋषि॑मना॒ य ऋ॑षि॒कृत्स्व॒र्षाः स॒हस्र॑णीथः पद॒वीः क॑वी॒नाम् । तृ॒तीयं॒ धाम॑ महि॒षः सिषा॑स॒न्त्सोमो॑ वि॒राज॒मनु॑ राजति॒ ष्टुप् ॥
ṛ́ṣi-manā yá ṛṣi-kṛ́t sva-rṣā́ḥ sahásra-nīthaḥ padavī́ḥ kavīnā́m | tṛtī́yaṃ dhā́ma mahíṣaḥ sisāsánt sómo virā́jam ánu rājati stup ||
He whose mind is that of the seer, who makes seerhood, self-streaming in the luminous world—leader of a thousand paths, the path-finder of the poets: desiring the third abode, the great Bull, Soma, chants and reigns following the Virāj (the wide-shining creative order).
ऋषि॑ऽमनाः । यः । ऋ॒षि॒ऽकृत् । स्वः॒ऽसाः । स॒हस्र॑ऽनीथः । प॒द॒ऽवीः । क॒वी॒नाम् । तृ॒तीय॑म् । धाम॑ । म॒हि॒षः । सिसा॑सन् । सोमः॑ । वि॒ऽराज॑म् । अनु॑ । रा॒ज॒ति॒ । स्तुप् ॥ऋषिमनाः । यः । ऋषिकृत् । स्वःसाः । सहस्रनीथः । पदवीः । कवीनाम् । तृतीयम् । धाम । महिषः । सिसासन् । सोमः । विराजम् । अनु । राजति । स्तुप् ॥ṛṣi-manāḥ | yaḥ | ṛṣi-kṛt | svaḥ-sāḥ | sahasra-nīthaḥ | pada-vīḥ | kavīnām | tṛtīyam | dhāma | mahiṣaḥ | sisāsan | somaḥ | vi-rājam | anu | rājati | stup