Sukta 9.96
शिशुं जज्ञानं हर्यतं मृजन्ति शुम्भन्ति वह्निं मरुतो गणेन । कविर्गीर्भिः काव्येना कविः सन्त्सोमः पवित्रमत्येति रेभन् ॥
शिशुं॑ जज्ञा॒नं ह॑र्य॒तं मृ॑जन्ति शु॒म्भन्ति॒ वह्निं॑ म॒रुतो॑ ग॒णेन॑ । क॒विर्गी॒र्भिः काव्ये॑ना क॒विः सन्त्सोम॑: प॒वित्र॒मत्ये॑ति॒ रेभ॑न् ॥
śíśuṃ jajñānáṃ haryatáṃ mṛjanti śúmbhanti váhniṃ marúto gaṇéna | kavír gī́rbhiḥ kā́vyenā kavíḥ sánt sómaḥ pavítram átyeti rébhan ||
They cleanse the newborn child, the desirable one; the Maruts with their host adorn the flaming bearer. A seer by the inspired words, by the poetic vision—seer indeed—Soma, chanting, passes beyond the filter.
शिशु॑म् । ज॒ज्ञा॒नम् । ह॒र्य॒तम् । मृ॒ज॒न्ति॒ । शु॒म्भन्ति॑ । वह्नि॑म् । म॒रुतः॑ । ग॒णेन॑ । क॒विः । गीः॒ऽभिः । काव्ये॑न । क॒विः । सन् । सोमः॑ । प॒वित्र॑म् । अति॑ । ए॒ति॒ । रेभ॑न् ॥शिशुम् । जज्ञानम् । हर्यतम् । मृजन्ति । शुम्भन्ति । वह्निम् । मरुतः । गणेन । कविः । गीःभिः । काव्येन । कविः । सन् । सोमः । पवित्रम् । अति । एति । रेभन् ॥śiśum | jajñānam | haryatam | mṛjanti | śumbhanti | vahnim | marutaḥ | gaṇena | kaviḥ | gīḥ-bhiḥ | kāvyena | kaviḥ | san | somaḥ | pavitram | ati | eti | rebhan