Sukta 9.96
स्वायुधः सोतृभिः पूयमानोऽभ्यर्ष गुह्यं चारु नाम । अभि वाजं सप्तिरिव श्रवस्याभि वायुमभि गा देव सोम ॥
स्वा॒यु॒धः सो॒तृभि॑: पू॒यमा॑नो॒ऽभ्य॑र्ष॒ गुह्यं॒ चारु॒ नाम॑ । अ॒भि वाजं॒ सप्ति॑रिव श्रव॒स्याभि वा॒युम॒भि गा दे॑व सोम ॥
svāyudhaḥ sotṛ́bhiḥ pūyámāno ’bhyàrṣa gúhyaṃ cā́ru nā́ma | abhí vā́jaṃ sáptir iva śravasyā́bhi vāyúm abhí gā́ deva soma ||
Armed with his own power, purified by the pressers, O Soma, flow forth toward the secret and beautiful Name. Rush toward the plenitude of force as a swift steed toward fame; rush toward Vāyu, rush toward the Rays (cows), O divine Soma.
सु॒ऽआ॒यु॒धः । सो॒तृऽभिः॑ । पू॒यमा॑नः । अ॒भि । अ॒र्ष॒ । गुह्य॑म् । चारु॑ । नाम॑ । अ॒भि । वाज॑म् । सप्तिः॑ऽइव । श्र॒व॒स्या । अ॒भि । वा॒युम् । अ॒भि । गाः । दे॒व॒ । सो॒म॒ ॥सुआयुधः । सोतृभिः । पूयमानः । अभि । अर्ष । गुह्यम् । चारु । नाम । अभि । वाजम् । सप्तिःइव । श्रवस्या । अभि । वायुम् । अभि । गाः । देव । सोम ॥su-āyudhaḥ | sotṛ-bhiḥ | pūyamānaḥ | abhi | arṣa | guhyam | cāru | nāma | abhi | vājam | saptiḥ-iva | śravasyā | abhi | vāyum | abhi | gāḥ | deva | soma