Sukta 9.96
एष स्य सोमो मतिभिः पुनानोऽत्यो न वाजी तरतीदरातीः । पयो न दुग्धमदितेरिषिरमुर्विव गातुः सुयमो न वोळ्हा ॥
ए॒ष स्य सोमो॑ म॒तिभि॑: पुना॒नोऽत्यो॒ न वा॒जी तर॒तीदरा॑तीः । पयो॒ न दु॒ग्धमदि॑तेरिषि॒रमु॒र्वि॑व गा॒तुः सु॒यमो॒ न वोळ्हा॑ ॥
eṣa sya somo matíbhiḥ punāno ’tyo na vājī taratīd arātīḥ | payo na dugdham aditer iṣiram urv iva gātuḥ su-yamo na voḷhā ||
This Soma, purified by our awakened thoughts, crosses beyond the forces of want and hostility like a swift steed rich in strength. Like milk drawn forth, he yields the impetuous, nourishing flow of Aditi—wide as the open path—well-guided, a sure bearer that carries us onward.
ए॒षः । स्यः । सोमः॑ । म॒तिऽभिः॑ । पु॒ना॒नः । अत्यः॑ । न । वा॒जी । तर॑ति । इत् । अरा॑तीः । पयः॑ । न । दु॒ग्धम् । अदि॑तेः । इ॒षि॒रम् । उ॒रुऽइ॑व । गा॒तुः । सु॒ऽयमः॑ । न । वोळ्हा॑ ॥एषः । स्यः । सोमः । मतिभिः । पुनानः । अत्यः । न । वाजी । तरति । इत् । अरातीः । पयः । न । दुग्धम् । अदितेः । इषिरम् । उरुइव । गातुः । सुयमः । न । वोळ्हा ॥eṣaḥ | syaḥ | somaḥ | mati-bhiḥ | punānaḥ | atyaḥ | na | vājī | tarati | it | arātīḥ | payaḥ | na | dugdham | aditeḥ | iṣiram | uru-iva | gātuḥ | su-yamaḥ | na | voḷhā