Sukta 9.96
वृष्टिं दिवः शतधारः पवस्व सहस्रसा वाजयुर्देववीतौ । सं सिन्धुभिः कलशे वावशानः समुस्रियाभिः प्रतिरन्न आयुः ॥
वृ॒ष्टिं दि॒वः श॒तधा॑रः पवस्व सहस्र॒सा वा॑ज॒युर्दे॒ववी॑तौ । सं सिन्धु॑भिः क॒लशे॑ वावशा॒नः समु॒स्रिया॑भिः प्रति॒रन्न॒ आयु॑: ॥
vṛṣṭíṃ diváḥ śatá-dhāraḥ pavasva sahasra-sā́ vāja-yúr deva-vī́tau | sáṃ síndhubhiḥ kalaśé vāvaśānáḥ sám usriyā́bhiḥ prá-tiran na ā́yuḥ ||
Purify yourself as the rain of heaven, hundred-streamed; winning a thousandfold plenitude of force in the gods’ finding. United with the rivers in the vessel, resounding, together with the shining lights, extend and secure our life—lengthening the soul’s term for the work of truth.
वृ॒ष्टिम् । दि॒वः । श॒तऽधा॑रः । प॒व॒स्व॒ । स॒ह॒स्र॒ऽसाः । वा॒ज॒ऽयुः । दे॒वऽवी॑तौ । सम् । सिन्धु॑ऽभिः । क॒लशे॑ । वा॒व॒शा॒नः । सम् । उ॒स्रिया॑भिः । प्र॒ऽति॒र॑न् । नः॒ । आयुः॑ ॥वृष्टिम् । दिवः । शतधारः । पवस्व । सहस्रसाः । वाजयुः । देववीतौ । सम् । सिन्धुभिः । कलशे । वावशानः । सम् । उस्रियाभिः । प्रतिरन् । नः । आयुः ॥vṛṣṭim | divaḥ | śata-dhāraḥ | pavasva | sahasra-sāḥ | vāja-yuḥ | deva-vītau | sam | sindhu-bhiḥ | kalaśe | vāvaśānaḥ | sam | usriyābhiḥ | pra-tiran | naḥ | āyuḥ