Sukta 9.96
पवस्व सोम मधुमाँ ऋतावापो वसानो अधि सानो अव्ये । अव द्रोणानि घृतवान्ति सीद मदिन्तमो मत्सर इन्द्रपानः ॥
पव॑स्व सोम॒ मधु॑माँ ऋ॒तावा॒पो वसा॑नो॒ अधि॒ सानो॒ अव्ये॑ । अव॒ द्रोणा॑नि घृ॒तवा॑न्ति सीद म॒दिन्त॑मो मत्स॒र इ॑न्द्र॒पान॑: ॥
páv asva soma mádhu-māṃ ṛtā́vāpo vásāno ádhi sā́nó ávyé | áva dróṇāni ghṛtá-vanti sīda madíntamo matsará indra-pā́naḥ ||
Purify yourself, O Soma, honey-rich and a keeper of the right; wearing the waters upon the woollen ridge. Sit down into the bowls filled with ghee—most intoxicating, most rapturous, Indra’s drink—so the delight may firmly inhabit the offered forms.
पव॑स्व । सो॒म॒ । मधु॑ऽमान् । ऋ॒तऽवा॑ । अ॒पः । वसा॑नः । अधि॑ । सानौ॑ । अव्ये॑ । अव॑ । द्रोणा॑नि । घृ॒तऽव॑न्ति । सी॒द॒ । म॒दिन्ऽत॑मः । म॒त्स॒रः । इ॒न्द्र॒ऽपानः॑ ॥पवस्व । सोम । मधुमान् । ऋतवा । अपः । वसानः । अधि । सानौ । अव्ये । अव । द्रोणानि । घृतवन्ति । सीद । मदिन्तमः । मत्सरः । इन्द्रपानः ॥pavasva | soma | madhu-mān | ṛta-vā | apaḥ | vasānaḥ | adhi | sānau | avye | ava | droṇāni | ghṛta-vanti | sīda | madin-tamaḥ | matsaraḥ | indra-pānaḥ