Sukta 9.96
यथापवथा मनवे वयोधा अमित्रहा वरिवोविद्धविष्मान् । एवा पवस्व द्रविणं दधान इन्द्रे सं तिष्ठ जनयायुधानि ॥
यथाप॑वथा॒ मन॑वे वयो॒धा अ॑मित्र॒हा व॑रिवो॒विद्ध॒विष्मा॑न् । ए॒वा प॑वस्व॒ द्रवि॑णं॒ दधा॑न॒ इन्द्रे॒ सं ति॑ष्ठ ज॒नयायु॑धानि ॥
yáthā apávathāḥ mánave vayó-dhā amitra-hā́ varivo-víd dhavíṣmān | evā́ pavasva dráviṇaṃ dádhāna índre sáṃ tiṣṭha janáyāyudhāni ||
As you purified yourself for Manu, granting the plenitudes, slaying the hostile, knowing the wide room, rich in offering—so purify yourself now, holding the treasure. Stand gathered in Indra, and bring forth the weapons: the effective powers for the victory of knowledge.
यथा॑ । अप॑वथाः । मन॑वे । व॒यः॒ऽधाः । अ॒मि॒त्र॒ऽहा । व॒रि॒वः॒ऽवित् । ह॒विष्मा॑न् । ए॒व । प॒व॒स्व॒ । द्रवि॑णम् । दधा॑नः । इन्द्रे॑ । सम् । ति॒ष्ठ॒ । ज॒नय॑ । आयु॑धानि ॥यथा । अपवथाः । मनवे । वयःधाः । अमित्रहा । वरिवःवित् । हविष्मान् । एव । पवस्व । द्रविणम् । दधानः । इन्द्रे । सम् । तिष्ठ । जनय । आयुधानि ॥yathā | apavathāḥ | manave | vayaḥ-dhāḥ | amitra-hā | varivaḥ-vit | haviṣmān | eva | pavasva | draviṇam | dadhānaḥ | indre | sam | tiṣṭha | janaya | āyudhāni