Sukta 9.96
त्वया हि नः पितरः सोम पूर्वे कर्माणि चक्रुः पवमान धीराः । वन्वन्नवातः परिधीँरपोर्णु वीरेभिरश्वैर्मघवा भवा नः ॥
त्वया॒ हि न॑: पि॒तर॑: सोम॒ पूर्वे॒ कर्मा॑णि च॒क्रुः प॑वमान॒ धीरा॑: । व॒न्वन्नवा॑तः परि॒धीँरपो॑र्णु वी॒रेभि॒रश्वै॑र्म॒घवा॑ भवा नः ॥
tváyā hí naḥ pitáraḥ soma pū́rve kármāṇi cakrúḥ pavamāna dhī́rāḥ | vánvann ávātāḥ paridhī́m̐r apórṇu vī́rebhir áśvair maghávā bhava naḥ ||
By you, O Soma, our ancient fathers, the wise, accomplished the works. Winning, remove the enclosing barriers from us, O irresistible one; with heroes and with steeds, become for us the giver of largeness—so that the journey of the soul may proceed unhindered.
त्वया॑ । हि । नः॒ । पि॒तरः॑ । सो॒म॒ । पूर्वे॑ । कर्मा॑णि । च॒क्रुः । प॒व॒मा॒न॒ । धीराः॑ । व॒न्वन् । अवा॑तः । प॒रि॒ऽधीन् । अप॑ । ऊ॒र्णु॒ । वी॒रेऽभिः । अश्वैः॑ । म॒घऽवा॑ । भ॒व॒ । नः॒ ॥त्वया । हि । नः । पितरः । सोम । पूर्वे । कर्माणि । चक्रुः । पवमान । धीराः । वन्वन् । अवातः । परिधीन् । अप । ऊर्णु । वीरेभिः । अश्वैः । मघवा । भव । नः ॥tvayā | hi | naḥ | pitaraḥ | soma | pūrve | karmāṇi | cakruḥ | pavamāna | dhīrāḥ | vanvan | avātaḥ | pari-dhīn | apa | ūrṇu | vīre-bhiḥ | aśvaiḥ | magha-vā | bhava | naḥ