Sukta 9.95
तं मर्मृजानं महिषं न सानावंशुं दुहन्त्युक्षणं गिरिष्ठाम् । तं वावशानं मतयः सचन्ते त्रितो बिभर्ति वरुणं समुद्रे ॥
तं म॑र्मृजा॒नं म॑हि॒षं न साना॑वं॒शुं दु॑हन्त्यु॒क्षणं॑ गिरि॒ष्ठाम् । तं वा॑वशा॒नं म॒तय॑: सचन्ते त्रि॒तो बि॑भर्ति॒ वरु॑णं समु॒द्रे ॥
táṃ marmṛjānám mahiṣáṃ ná sānā́v aṃśúṃ duhanty ukṣáṇaṃ giri-sthā́m | táṃ vāvaśānám matáyaḥ sacante tritó bibharti váruṇaṃ samudré ||
Him, being polished, like a mighty bull on the height—the shining stalk, the strong one, standing on the mountain—men milk forth. To him, eager, the inspirations attach themselves; Trita bears Varuṇa in the ocean-depth.
तम् । म॒र्मृ॒जा॒नम् । म॒हि॒षम् । न । सानौ॑ । अं॒शुम् । दु॒ह॒न्ति॒ । उ॒क्षण॑म् । गि॒रि॒ऽस्थाम् । तम् । वा॒व॒शा॒नम् । म॒तयः॑ । स॒च॒न्ते॒ । त्रि॒तः । बि॒भ॒र्ति॒ । वरु॑णम् । स॒मु॒द्रे ॥तम् । मर्मृजानम् । महिषम् । न । सानौ । अंशुम् । दुहन्ति । उक्षणम् । गिरिस्थाम् । तम् । वावशानम् । मतयः । सचन्ते । त्रितः । बिभर्ति । वरुणम् । समुद्रे ॥tam | marmṛjānam | mahiṣam | na | sānau | aṃśum | duhanti | ukṣaṇam | giri-sthām | tam | vāvaśānam | matayaḥ | sacante | tritaḥ | bibharti | varuṇam | samudre