Sukta 9.95
अपामिवेदूर्मयस्तर्तुराणाः प्र मनीषा ईरते सोममच्छ । नमस्यन्तीरुप च यन्ति सं चा च विशन्त्युशतीरुशन्तम् ॥
अ॒पामि॒वेदू॒र्मय॒स्तर्तु॑राणा॒: प्र म॑नी॒षा ई॑रते॒ सोम॒मच्छ॑ । न॒म॒स्यन्ती॒रुप॑ च॒ यन्ति॒ सं चा च॑ विशन्त्युश॒तीरु॒शन्त॑म् ॥
apāmívéd ū́rmayas tarturāṇā́ḥ prá manīṣā́ īrate sómam áccha | namasyántīr úpa ca yánti sám cā́ ca viśanti uśatī́r uśántam ||
Like waves of waters rushing, the seeking inspirations surge toward Soma. Adoring, they come near, they gather, they enter—desiring him who desires (the offering and the ascent).
अ॒पाम्ऽइ॑व । इत् । ऊ॒र्मयः॑ । तर्तु॑राणाः । प्र । म॒नी॒षाः । ई॒र॒ते॒ । सोम॑म् । अच्छ॑ । न॒म॒स्यन्तीः॑ । उप॑ । च॒ । यन्ति॑ । सम् । च॒ । आ । च॒ । वि॒श॒न्ति॒ । उ॒श॒तीः । उ॒शन्त॑म् ॥अपाम्इव । इत् । ऊर्मयः । तर्तुराणाः । प्र । मनीषाः । ईरते । सोमम् । अच्छ । नमस्यन्तीः । उप । च । यन्ति । सम् । च । आ । च । विशन्ति । उशतीः । उशन्तम् ॥apām-iva | it | ūrmayaḥ | tarturāṇāḥ | pra | manīṣāḥ | īrate | somam | accha | namasyantīḥ | upa | ca | yanti | sam | ca | ā | ca | viśanti | uśatīḥ | uśantam