Sukta 9.95
इष्यन्वाचमुपवक्तेव होतुः पुनान इन्दो वि ष्या मनीषाम् । इन्द्रश्च यत्क्षयथः सौभगाय सुवीर्यस्य पतयः स्याम ॥
इष्य॒न्वाच॑मुपव॒क्तेव॒ होतु॑: पुना॒न इ॑न्दो॒ वि ष्या॑ मनी॒षाम् । इन्द्र॑श्च॒ यत्क्षय॑थ॒: सौभ॑गाय सु॒वीर्य॑स्य॒ पत॑यः स्याम ॥
íṣyan vā́cam upavaktéva hótuḥ punāná índo ví ṣyā manīṣā́m | índraś ca yát kṣáyathaḥ saúbhagāya su-vī́ryasya pátayaḥ syāma ||
Desiring the Word, like an assistant-speaker of the Hotar, O purifying Indu, spread out the inspiration. Since you and Indra dwell for our good fortune, may we become masters of a heroic power that is truly strong.
इष्य॑न् । वाच॑म् । उ॒प॒व॒क्ताऽइ॑व । होतुः॑ । पु॒ना॒नः । इ॒न्दो॒ इति॑ । वि । स्य॒ । म॒नी॒षाम् । इन्द्रः॑ । च॒ । यत् । क्षय॑थः । सौभ॑गाय । सु॒ऽवीर्य॑स्य । पत॑यः । स्या॒म॒ ॥इष्यन् । वाचम् । उपवक्ताइव । होतुः । पुनानः । इन्दो इति । वि । स्य । मनीषाम् । इन्द्रः । च । यत् । क्षयथः । सौभगाय । सुवीर्यस्य । पतयः । स्याम ॥iṣyan | vācam | upavaktā-iva | hotuḥ | punānaḥ | indo iti | vi | sya | manīṣām | indraḥ | ca | yat | kṣayathaḥ | saubhagāya | su-vīryasya | patayaḥ | syāma