Sukta 9.95
हरिः सृजानः पथ्यामृतस्येयर्ति वाचमरितेव नावम् । देवो देवानां गुह्यानि नामाविष्कृणोति बर्हिषि प्रवाचे ॥
हरि॑: सृजा॒नः प॒थ्या॑मृ॒तस्येय॑र्ति॒ वाच॑मरि॒तेव॒ नाव॑म् । दे॒वो दे॒वानां॒ गुह्या॑नि॒ नामा॒विष्कृ॑णोति ब॒र्हिषि॑ प्र॒वाचे॑ ॥
hárīḥ sṛjānás pathyā́m ṛtásyéyarti vā́cam aritā́iva nā́vam | devó devā́nāṃ guhyā́ni nā́mā́viṣkṛṇoti bárhiṣi prá-vāce ||
The tawny one, being released, sets in motion the path of Ṛta; he impels the Word as a rower drives a boat. The god makes manifest on the sacred seat the secret names of the gods for the forward utterance.
हरिः॑ । सृ॒जा॒नः । प॒थ्या॑म् । ऋ॒तस्य॑ । इय॑र्ति । वाच॑म् । अ॒रि॒ताऽइ॑व । नाव॑म् । दे॒वः । दे॒वाना॑म् । गुह्या॑नि । नाम॑ । आ॒विः । कृ॒णो॒ति॒ । ब॒र्हिषि॑ । प्र॒ऽवाचे॑ ॥हरिः । सृजानः । पथ्याम् । ऋतस्य । इयर्ति । वाचम् । अरिताइव । नावम् । देवः । देवानाम् । गुह्यानि । नाम । आविः । कृणोति । बर्हिषि । प्रवाचे ॥hariḥ | sṛjānaḥ | pathyām | ṛtasya | iyarti | vācam | aritā-iva | nāvam | devaḥ | devānām | guhyāni | nāma | āviḥ | kṛṇoti | barhiṣi | pra-vāce