Sukta 9.95
कनिक्रन्ति हरिरा सृज्यमानः सीदन्वनस्य जठरे पुनानः । नृभिर्यतः कृणुते निर्णिजं गा अतो मतीर्जनयत स्वधाभिः ॥
कनि॑क्रन्ति॒ हरि॒रा सृ॒ज्यमा॑न॒: सीद॒न्वन॑स्य ज॒ठर॑ऋ पुना॒नः । नृभि॑र्य॒तः कृ॑णुते नि॒र्णिजं॒ गा अतो॑ म॒तीर्ज॑नयत स्व॒धाभि॑: ॥
kaníkranti hárir ā́ sṛjyámānaḥ sī́dan vánasya jaṭháre punānás | nṛ́bhir yatáḥ kṛṇute nírṇijaṃ gā́ áto matī́r janayat svadhā́bhiḥ ||
The tawny one murmurs as he is released; purifying himself, he settles into the belly of the wooden vessel. Where the men work him, he makes his bright cleansing robe; from that he brings forth inspired thoughts by his own self-law.
कनि॑क्रन्ति । हरिः॑ । आ । सृ॒ज्यमा॑नः । सीद॑न् । वन॑स्य । ज॒ठरे॑ । पु॒ना॒नः । नृऽभिः॑ । य॒तः । कृ॒णु॒ते॒ । निः॒ऽनिज॑म् । गाः । अतः॑ । म॒तीः । ज॒न॒य॒त॒ । स्व॒धाभिः॑ ॥कनिक्रन्ति । हरिः । आ । सृज्यमानः । सीदन् । वनस्य । जठरे । पुनानः । नृभिः । यतः । कृणुते । निःनिजम् । गाः । अतः । मतीः । जनयत । स्वधाभिः ॥kanikranti | hariḥ | ā | sṛjyamānaḥ | sīdan | vanasya | jaṭhare | punānaḥ | nṛ-bhiḥ | yataḥ | kṛṇute | niḥ-nijam | gāḥ | ataḥ | matīḥ | janayata | svadhābhiḥ