Sukta 9.94
अधि यदस्मिन्वाजिनीव शुभः स्पर्धन्ते धियः सूर्ये न विशः । अपो वृणानः पवते कवीयन्व्रजं न पशुवर्धनाय मन्म ॥
अधि॒ यद॑स्मिन्वा॒जिनी॑व॒ शुभ॒: स्पर्ध॑न्ते॒ धिय॒: सूर्ये॒ न विश॑: । अ॒पो वृ॑णा॒नः प॑वते कवी॒यन्व्र॒जं न प॑शु॒वर्ध॑नाय॒ मन्म॑ ॥
adhi yád asmin vājínīva śúbhaḥ spárdhante dhíyaḥ sū́rye ná víśaḥ | apó vṛṇānás pavate kavīyán vrajáṃ ná paśu-várdhanāya mánma ||
When in this (clarified Soma) the luminous forces of thought contend like eager racers, as peoples gather toward the Sun, then he—choosing the Waters (the purifying currents)—flows on, becoming more seer-like, and he establishes a ‘fold’ of ordered fullness for the increase of the inner herds (rays of knowledge and powers), a formation of inspired mind.
अधि॑ । यत् । अ॒स्मि॒न् । वा॒जिनि॑ऽइव । शुभः॑ । स्पर्ध॑न्ते । धियः॑ । सूर्ये॑ । न । विशः॑ । अ॒पः । वृ॒णा॒नः । प॒व॒ते॒ । क॒वि॒ऽयन् । व्र॒जम् । न । प॒शु॒ऽवर्ध॑नाय । मन्म॑ ॥अधि । यत् । अस्मिन् । वाजिनिइव । शुभः । स्पर्धन्ते । धियः । सूर्ये । न । विशः । अपः । वृणानः । पवते । कवियन् । व्रजम् । न । पशुवर्धनाय । मन्म ॥adhi | yat | asmin | vājini-iva | śubhaḥ | spardhante | dhiyaḥ | sūrye | na | viśaḥ | apaḥ | vṛṇānaḥ | pavate | kavi-yan | vrajam | na | paśu-vardhanāya | manma