Sukta 9.93
नू नो रयिमुप मास्व नृवन्तं पुनानो वाताप्यं विश्वश्चन्द्रम् । प्र वन्दितुरिन्दो तार्यायुः प्रातर्मक्षू धियावसुर्जगम्यात् ॥
नू नो॑ र॒यिमुप॑ मास्व नृ॒वन्तं॑ पुना॒नो वा॒ताप्यं॑ वि॒श्वश्च॑न्द्रम् । प्र व॑न्दि॒तुरि॑न्दो ता॒र्यायु॑: प्रा॒तर्म॒क्षू धि॒याव॑सुर्जगम्यात् ॥
nū́ no rayím úpa mā́sva nṛ-vántaṃ punā́nō vātā́pyaṃ viśvá-candram | prá vanditúr indo tā́ry ā́yuḥ prātár makṣū́ dhiyā́vasur jagamyāt ||
Now bring near to us the wealth that is full of manhood, O purifying one—fresh as the wind, shining for all. May the praiser, O Indu, cross beyond in life; may he quickly at dawn arrive, rich in inspired substance.
नु । नः॒ । र॒यिम् । उप॑ । मा॒स्व॒ । नृ॒ऽवन्त॑म् । पु॒ना॒नः । वा॒ताप्य॑म् । वि॒श्वऽच॑न्द्रम् । प्र । व॒न्दि॒तुः । इ॒न्दो॒ इति॑ । ता॒रि॒ । आयुः॑ । प्रा॒तः । म॒क्षु । धि॒याऽव॑सुः । ज॒ग॒म्या॒त् ॥नु । नः । रयिम् । उप । मास्व । नृवन्तम् । पुनानः । वाताप्यम् । विश्वचन्द्रम् । प्र । वन्दितुः । इन्दो इति । तारि । आयुः । प्रातः । मक्षु । धियावसुः । जगम्यात् ॥nu | naḥ | rayim | upa | māsva | nṛ-vantam | punānaḥ | vātāpyam | viśva-candram | pra | vandituḥ | indo iti | tāri | āyuḥ | prātaḥ | makṣu | dhiyāvasuḥ | jagamyāt