Sukta 9.91
एवा पुनानो अपः स्वर्गा अस्मभ्यं तोका तनयानि भूरि । शं नः क्षेत्रमुरु ज्योतींषि सोम ज्योङ्नः सूर्यं दृशये रिरीहि ॥
ए॒वा पु॑ना॒नो अ॒पः स्व१॒॑र्गा अ॒स्मभ्यं॑ तो॒का तन॑यानि॒ भूरि॑ । शं न॒: क्षेत्र॑मु॒रु ज्योतीं॑षि सोम॒ ज्योङ्न॒: सूर्यं॑ दृ॒शये॑ रिरीहि ॥
evā́ punānó apáḥ svàr gā́ asmábhyaṃ tokā́ tanayā́ni bhū́ri | śáṃ naḥ kṣétram urú jyótīṃṣi soma jyók naḥ sū́ryaṃ dṛśáye rirīhi ||
Thus, O Soma, purified, bring for us the Waters, the luminous Cows of the Sun-world, and abundant births of our being—children and continuations. Make wide our field in peace; widen the lights for us. For long, set the Sun before us to be seen—establish a lasting vision of the Truth-light.
ए॒व । पु॒ना॒नः । अ॒पः । स्वः॑ । गाः । अ॒स्मभ्य॑म् । तो॒का । तन॑यानि । भूरि॑ । शम् । नः॒ । क्षेत्र॑म् । उ॒रु । ज्योतीं॑षि । सो॒म॒ । ज्योक् । नः॒ । सूर्य॑म् । दृ॒शये॑ । रि॒री॒हि॒ ॥एव । पुनानः । अपः । स्वः । गाः । अस्मभ्यम् । तोका । तनयानि । भूरि । शम् । नः । क्षेत्रम् । उरु । ज्योतींषि । सोम । ज्योक् । नः । सूर्यम् । दृशये । रिरीहि ॥eva | punānaḥ | apaḥ | svaḥ | gāḥ | asmabhyam | tokā | tanayāni | bhūri | śam | naḥ | kṣetram | uru | jyotīṃṣi | soma | jyok | naḥ | sūryam | dṛśaye | rirīhi