Sukta 9.9
परि प्रिया दिवः कविर्वयांसि नप्त्योर्हितः । सुवानो याति कविक्रतुः ॥
परि॑ प्रि॒या दि॒वः क॒विर्वयां॑सि न॒प्त्यो॑र्हि॒तः । सु॒वा॒नो या॑ति क॒विक्र॑तुः ॥
pári priyā́ diváḥ kavír vayā́ṃsi naptyór hitáḥ | suvānó yāti kavíkratúḥ ||
Around the beloved forms of heaven, the seer moves—set in the two kindred realms; pressing himself forth, he goes, whose will is the poet’s inspired power.
परि॑ । प्रि॒या । दि॒वः । क॒विः । वयां॑सि । न॒प्त्योः॑ । हि॒तः । सु॒वा॒नः । या॒ति॒ । क॒विऽक्र॑तुः ॥परि । प्रिया । दिवः । कविः । वयांसि । नप्त्योः । हितः । सुवानः । याति । कविक्रतुः ॥pari | priyā | divaḥ | kaviḥ | vayāṃsi | naptyoḥ | hitaḥ | suvānaḥ | yāti | kavi-kratuḥ