Sukta 9.88
शुष्मी शर्धो न मारुतं पवस्वानभिशस्ता दिव्या यथा विट् । आपो न मक्षू सुमतिर्भवा नः सहस्राप्साः पृतनाषाण्न यज्ञः ॥
शु॒ष्मी शर्धो॒ न मारु॑तं पव॒स्वान॑भिशस्ता दि॒व्या यथा॒ विट् । आपो॒ न म॒क्षू सु॑म॒तिर्भ॑वा नः स॒हस्रा॑प्साः पृतना॒षाण्न य॒ज्ञः ॥
śuṣmī́ śárdho na mā́rutaṃ pavasvā́nabhiśastā divyā́ yáthā víṭ | ā́po na mákṣū sumatír bhavā naḥ sahásrāpsāḥ pṛtanāṣā́ṇ na yajñáḥ ||
Strong in energy, purify thyself like a Marut-host, unassailed, heavenly as the clan that stands firm. Like waters swiftly, become for us a right and luminous goodwill; thousand-streamed, conquering in battles, like the sacrifice itself.
शु॒ष्मी । शर्धः॑ । न । मारु॑तम् । प॒व॒स्व॒ । अन॑भिऽशस्ता । दि॒व्या । यथा॑ । विट् । आपः॑ । न । म॒क्षु । सु॒ऽम॒तिः । भ॒व॒ । नः॒ । स॒हस्र॑ऽअप्साः । पृ॒त॒ना॒षाट् । न । य॒ज्ञः ॥शुष्मी । शर्धः । न । मारुतम् । पवस्व । अनभिशस्ता । दिव्या । यथा । विट् । आपः । न । मक्षु । सुमतिः । भव । नः । सहस्रअप्साः । पृतनाषाट् । न । यज्ञः ॥śuṣmī | śardhaḥ | na | mārutam | pavasva | anabhi-śastā | divyā | yathā | viṭ | āpaḥ | na | makṣu | su-matiḥ | bhava | naḥ | sahasra-apsāḥ | pṛtanāṣāṭ | na | yajñaḥ