Sukta 9.88
एते सोमा अति वाराण्यव्या दिव्या न कोशासो अभ्रवर्षाः । वृथा समुद्रं सिन्धवो न नीचीः सुतासो अभि कलशाँ असृग्रन् ॥
ए॒ते सोमा॒ अति॒ वारा॒ण्यव्या॑ दि॒व्या न कोशा॑सो अ॒भ्रव॑र्षाः । वृथा॑ समु॒द्रं सिन्ध॑वो॒ न नीची॑: सु॒तासो॑ अ॒भि क॒लशाँ॑ असृग्रन् ॥
eté sómā áti vārā́ṇy avyā́ divyā́ na kośā́so abhrá-varṣāḥ | vṛ́thā samudráṃ síndhavo na nīcī́ḥ sutā́so abhí kalaśā́ṃ asṛgran ||
These Soma-streams pass beyond the woollen filters, like heavenly vessels pouring from the cloud. Mightily, like rivers rushing down to the ocean, the pressed ones have run into the jars—into the holding of consciousness.
ए॒ते । सोमाः॑ । अति॑ । वारा॑णि । अव्या॑ । दि॒व्या । न । कोशा॑सः । अ॒भ्रऽव॑र्षाः । वृथा॑ । स॒मु॒द्रम् । सिन्ध॑वः । न । नीचीः॑ । सु॒तासः॑ । अ॒भि । क॒लशा॑न् । अ॒सृ॒ग्र॒न् ॥एते । सोमाः । अति । वाराणि । अव्या । दिव्या । न । कोशासः । अभ्रवर्षाः । वृथा । समुद्रम् । सिन्धवः । न । नीचीः । सुतासः । अभि । कलशान् । असृग्रन् ॥ete | somāḥ | ati | vārāṇi | avyā | divyā | na | kośāsaḥ | abhra-varṣāḥ | vṛthā | samudram | sindhavaḥ | na | nīcīḥ | sutāsaḥ | abhi | kalaśān | asṛgran