Sukta 9.88
अग्निर्न यो वन आ सृज्यमानो वृथा पाजांसि कृणुते नदीषु । जनो न युध्वा महत उपब्दिरियर्ति सोमः पवमान ऊर्मिम् ॥
अ॒ग्निर्न यो वन॒ आ सृ॒ज्यमा॑नो॒ वृथा॒ पाजां॑सि कृणुते न॒दीषु॑ । जनो॒ न युध्वा॑ मह॒त उ॑प॒ब्दिरिय॑र्ति॒ सोम॒: पव॑मान ऊ॒र्मिम् ॥
agnír na yó vána ā́ sṛjyámāno vṛ́thā pā́jāṃsi kṛṇute nadī́ṣu | jáno na yúdhvā maháta úpabdir íyarti sómaḥ pávamāna ū́rmim ||
Like Agni released into the forest, he makes his mights blaze along the rivers. Like a battling people with a great roar, Soma in purification drives forward the wave—an advancing surge of force.
अ॒ग्निः । न । यः । वने॑ । आ । सृ॒ज्यमा॑नः । वृथा॑ । पाजां॑सि । कृ॒णु॒ते॒ । न॒दीषु॑ । जनः॑ । न । युध्वा॑ । म॒ह॒तः । उ॒प॒ब्दिः । इय॑र्ति । सोमः॑ । पव॑मानः । ऊ॒र्मिम् ॥अग्निः । न । यः । वने । आ । सृज्यमानः । वृथा । पाजांसि । कृणुते । नदीषु । जनः । न । युध्वा । महतः । उपब्दिः । इयर्ति । सोमः । पवमानः । ऊर्मिम् ॥agniḥ | na | yaḥ | vane | ā | sṛjyamānaḥ | vṛthā | pājāṃsi | kṛṇute | nadīṣu | janaḥ | na | yudhvā | mahataḥ | upabdiḥ | iyarti | somaḥ | pavamānaḥ | ūrmim