Sukta 9.88
इन्द्रो न यो महा कर्माणि चक्रिर्हन्ता वृत्राणामसि सोम पूर्भित् । पैद्वो न हि त्वमहिनाम्नां हन्ता विश्वस्यासि सोम दस्योः ॥
इन्द्रो॒ न यो म॒हा कर्मा॑णि॒ चक्रि॑र्ह॒न्ता वृ॒त्राणा॑मसि सोम पू॒र्भित् । पै॒द्वो न हि त्वमहि॑नाम्नां ह॒न्ता विश्व॑स्यासि सोम॒ दस्यो॑: ॥
índro na yó mahā́ kármāṇi cakrír hantā́ vṛtrā́ṇām asi soma pū́r-bhit | paidvó na hí tvám ahi-nāmnām hantā́ víśvasyāsi soma dásyoḥ ||
Like Indra who has done the great works, thou art the slayer of the obstructions, O Soma, the breaker of the strongholds. For thou indeed, like the son of Paidva, art a slayer of the serpent-named powers; thou art, O Soma, the destroyer of every Dasyu (darkness-force).
इन्द्रः॑ । न । यः । म॒हा । कर्मा॑णि । चक्रिः॑ । ह॒न्ता । वृ॒त्राणा॑म् । अ॒सि॒ । सो॒म॒ । पूः॒ऽभित् । पै॒द्वः । न । हि । त्वम् । अहि॑ऽनाम्नाम् । ह॒न्ता । विश्व॑स्य । अ॒सि॒ । सो॒म॒ । दस्योः॑ ॥इन्द्रः । न । यः । महा । कर्माणि । चक्रिः । हन्ता । वृत्राणाम् । असि । सोम । पूःभित् । पैद्वः । न । हि । त्वम् । अहिनाम्नाम् । हन्ता । विश्वस्य । असि । सोम । दस्योः ॥indraḥ | na | yaḥ | mahā | karmāṇi | cakriḥ | hantā | vṛtrāṇām | asi | soma | pūḥ-bhit | paidvaḥ | na | hi | tvam | ahi-nāmnām | hantā | viśvasya | asi | soma | dasyoḥ