Sukta 9.88
वायुर्न यो नियुत्वाँ इष्टयामा नासत्येव हव आ शम्भविष्ठः । विश्ववारो द्रविणोदा इव त्मन्पूषेव धीजवनोऽसि सोम ॥
वा॒युर्न यो नि॒युत्वाँ॑ इ॒ष्टया॑मा॒ नास॑त्येव॒ हव॒ आ शम्भ॑विष्ठः । वि॒श्ववा॑रो द्रविणो॒दा इ॑व॒ त्मन्पू॒षेव॑ धी॒जव॑नोऽसि सोम ॥
vāyúr na yó niyútvāṃ iṣṭáyāmā nā́satyā-iva háva ā́ śámbhaviṣṭhaḥ | viśvá-vāro draviṇodā́ iva tmán pūṣéva dhī-jávanó asi soma ||
Like Vāyu with his yoked steeds, moving by the desired paths, like the Nāsatyas coming at the call, thou art most fostering of bliss. All-desirable, like a giver of treasure in thy own self, like Pūṣan a quickener of inspired thought, thou art, O Soma.
वा॒युः । न । यः । नि॒युत्वा॑न् । इ॒ष्टऽया॑मा । नास॑त्याऽइव । हवे॑ । आ । शम्ऽभ॑विष्ठः । वि॒श्वऽवा॑रः । द्र॒वि॒णो॒दाःऽइ॑व । त्मन् । पू॒षाऽइ॑व । धी॒ऽजव॑नः । अ॒सि॒ । सो॒म॒ ॥वायुः । न । यः । नियुत्वान् । इष्टयामा । नासत्याइव । हवे । आ । शम्भविष्ठः । विश्ववारः । द्रविणोदाःइव । त्मन् । पूषाइव । धीजवनः । असि । सोम ॥vāyuḥ | na | yaḥ | niyutvān | iṣṭa-yāmā | nāsatyā-iva | have | ā | śam-bhaviṣṭhaḥ | viśva-vāraḥ | draviṇodāḥ-iva | tman | pūṣā-iva | dhī-javanaḥ | asi | soma