Sukta 9.88
स ईं रथो न भुरिषाळयोजि महः पुरूणि सातये वसूनि । आदीं विश्वा नहुष्याणि जाता स्वर्षाता वन ऊर्ध्वा नवन्त ॥
स ईं॒ रथो॒ न भु॑रि॒षाळ॑योजि म॒हः पु॒रूणि॑ सा॒तये॒ वसू॑नि । आदीं॒ विश्वा॑ नहु॒ष्या॑णि जा॒ता स्व॑र्षाता॒ वन॑ ऊ॒र्ध्वा न॑वन्त ॥
sá īṃ rátho na bhuríṣāḷ ayoji máhaḥ purū́ṇi sātáye vásūni | ād īṃ víśvā nahuṣyā́ṇi jātā́ svaḥ-sātā váne ūrdhvā́ návanta ||
He is yoked like a chariot of abundant strength, for the winning of many great riches of being. Then all the Nahusha-born powers that have come to birth, victorious in the light, bow upward in the forest of growth.
सः । ई॒म् इति॑ । रथः॑ । न । भु॒रि॒षाट् । अ॒यो॒जि॒ । म॒हः । पु॒रूणि॑ । सा॒तये॑ । वसू॑नि । आत् । ई॒म् इति॑ । विश्वा॑ । न॒हु॒ष्या॑णि । जा॒ता । स्वः॑ऽसाता । वने॑ । ऊ॒र्ध्वा । न॒व॒न्त॒ ॥सः । ईम् इति । रथः । न । भुरिषाट् । अयोजि । महः । पुरूणि । सातये । वसूनि । आत् । ईम् इति । विश्वा । नहुष्याणि । जाता । स्वःसाता । वने । ऊर्ध्वा । नवन्त ॥saḥ | īm iti | rathaḥ | na | bhuriṣāṭ | ayoji | mahaḥ | purūṇi | sātaye | vasūni | āt | īm iti | viśvā | nahuṣyāṇi | jātā | svaḥ-sātā | vane | ūrdhvā | navanta