Sukta 9.88
अयं सोम इन्द्र तुभ्यं सुन्वे तुभ्यं पवते त्वमस्य पाहि । त्वं ह यं चकृषे त्वं ववृष इन्दुं मदाय युज्याय सोमम् ॥
अ॒यं सोम॑ इन्द्र॒ तुभ्यं॑ सुन्वे॒ तुभ्यं॑ पवते॒ त्वम॑स्य पाहि । त्वं ह॒ यं च॑कृ॒षे त्वं व॑वृ॒ष इन्दुं॒ मदा॑य॒ युज्या॑य॒ सोम॑म् ॥
ayáṃ sóma indra túbhyaṃ sunve túbhyaṃ pavate tvám asya pāhi | tváṃ ha yáṃ cakṛṣé tváṃ vavṛ́ṣa índuṃ mádāya yújyāya sómam ||
This Soma, O Indra, is pressed for thee; for thee it flows in purification—drink of it. For whom thou hast fashioned the way, whom thou hast made to grow, that drop of delight, that Soma, is for thy ecstasy and for thy yoking to the work.
अ॒यम् । सोमः॑ । इ॒न्द्र॒ । तुभ्य॑म् । सु॒न्वे॒ । तुभ्य॑म् । प॒व॒ते॒ । त्वम् । अ॒स्य॒ । पा॒हि॒ । त्वम् । ह॒ । यम् । च॒कृ॒षे । त्वम् । व॒वृ॒षे । इन्दु॑म् । मदा॑य । युज्या॑य । सोम॑म् ॥अयम् । सोमः । इन्द्र । तुभ्यम् । सुन्वे । तुभ्यम् । पवते । त्वम् । अस्य । पाहि । त्वम् । ह । यम् । चकृषे । त्वम् । ववृषे । इन्दुम् । मदाय । युज्याय । सोमम् ॥ayam | somaḥ | indra | tubhyam | sunve | tubhyam | pavate | tvam | asya | pāhi | tvam | ha | yam | cakṛṣe | tvam | vavṛṣe | indum | madāya | yujyāya | somam