Sukta 9.87
एते सोमा अभि गव्या सहस्रा महे वाजायामृताय श्रवांसि । पवित्रेभिः पवमाना असृग्रञ्छ्रवस्यवो न पृतनाजो अत्याः ॥
ए॒ते सोमा॑ अ॒भि ग॒व्या स॒हस्रा॑ म॒हे वाजा॑या॒मृता॑य॒ श्रवां॑सि । प॒वित्रे॑भि॒: पव॑माना असृग्रञ्छ्रव॒स्यवो॒ न पृ॑त॒नाजो॒ अत्या॑: ॥
eté sómā abhí gavyā́ sahásrā mahé vājā́yāmṛ́tāya śrávāṃsi | pavítrebhíḥ pavamānā asṛgran śravasyávo ná pṛtanā́jo átyāḥ ||
These Somas press forward to the thousandfold rays, to the great plenitude of force, to immortality and to the powers of inspired hearing. Purifying themselves through the filters, they have streamed out—seeking luminous fame like battle-chargers, swift steeds.
ए॒ते । सोमाः॑ । अ॒भि । ग॒व्या । स॒हस्रा॑ । म॒हे । वाजा॑य । अ॒मृता॑य । श्रवां॑सि । प॒वित्रे॑भिः । पव॑मानाः । अ॒सृ॒ग्र॒न् । श्र॒व॒स्यवः॑ । न । पृ॒त॒नाजः॑ । अत्याः॑ ॥एते । सोमाः । अभि । गव्या । सहस्रा । महे । वाजाय । अमृताय । श्रवांसि । पवित्रेभिः । पवमानाः । असृग्रन् । श्रवस्यवः । न । पृतनाजः । अत्याः ॥ete | somāḥ | abhi | gavyā | sahasrā | mahe | vājāya | amṛtāya | śravāṃsi | pavitrebhiḥ | pavamānāḥ | asṛgran | śravasyavaḥ | na | pṛtanājaḥ | atyāḥ