Sukta 9.87
एष स्य ते मधुमाँ इन्द्र सोमो वृषा वृष्णे परि पवित्रे अक्षाः । सहस्रसाः शतसा भूरिदावा शश्वत्तमं बर्हिरा वाज्यस्थात् ॥
ए॒ष स्य ते॒ मधु॑माँ इन्द्र॒ सोमो॒ वृषा॒ वृष्णे॒ परि॑ प॒वित्रे॑ अक्षाः । स॒ह॒स्र॒साः श॑त॒सा भू॑रि॒दावा॑ शश्वत्त॒मं ब॒र्हिरा वा॒ज्य॑स्थात् ॥
eṣá syá te mádhumān indra sómo vṛ́ṣā vṛ́ṣṇe pári pavítre akṣāḥ | sahasrasā́ḥ śatasā́ bhūridā́vā śaśvattamáṃ bárhir ā́ vājī́ asthāt ||
This is thy honeyed Soma, O Indra; a bull for the Bull, he has flowed around the filter. Winner of a thousand, winner of a hundred, giver of abundance, the ever-lasting energised one has taken his stand upon the sacred seat.
ए॒षः । स्यः । ते॒ । मधु॑ऽमान् । इ॒न्द्र॒ । सोमः॑ । वृषा॑ । वृष्णे॑ । परि॑ । प॒वित्रे॑ । अ॒क्षा॒रिति॑ । स॒ह॒स्र॒ऽसाः । श॒त॒ऽसाः । भू॒रि॒ऽदावा॑ । श॒श्व॒त्ऽत॒मम् । ब॒र्हिः । आ । वा॒जी । अ॒स्था॒त् ॥एषः । स्यः । ते । मधुमान् । इन्द्र । सोमः । वृषा । वृष्णे । परि । पवित्रे । अक्षारिति । सहस्रसाः । शतसाः । भूरिदावा । शश्वत्तमम् । बर्हिः । आ । वाजी । अस्थात् ॥eṣaḥ | syaḥ | te | madhu-mān | indra | somaḥ | vṛṣā | vṛṣṇe | pari | pavitre | akṣāriti | sahasra-sāḥ | śata-sāḥ | bhūri-dāvā | śaśvat-tamam | barhiḥ | ā | vājī | asthāt