Sukta 9.87
परि हि ष्मा पुरुहूतो जनानां विश्वासरद्भोजना पूयमानः । अथा भर श्येनभृत प्रयांसि रयिं तुञ्जानो अभि वाजमर्ष ॥
परि॒ हि ष्मा॑ पुरुहू॒तो जना॑नां॒ विश्वास॑र॒द्भोज॑ना पू॒यमा॑नः । अथा भ॑र श्येनभृत॒ प्रयां॑सि र॒यिं तुञ्जा॑नो अ॒भि वाज॑मर्ष ॥
pári hí ṣmā puruhūtó jánānāṃ víśvāsarad bhójanā pūyamā́naḥ | áthā́ bhara śyenabhṛta práyāṃsi rayíṃ tuñjā́no abhí vā́jam arṣa ||
For indeed, much-invoked among the peoples, purified, thou movest around all foods of delight. Then bring, O eagle-borne, thy forward-gifts; thrusting forth the spiritual plenitude (rayi), flow towards the victorious force (vāja).
परि॑ । हि । स्म॒ । पु॒रु॒ऽहू॒तः । जना॑नाम् । विश्वा॑ । अस॑रत् । भोज॑ना । पू॒यमा॑नः । अथ॑ । आ । भ॒र॒ । श्ये॒न॒ऽभृ॒त॒ । प्रयां॑सि । र॒यिम् । तुञ्जा॑नः । अ॒भि । वाज॑म् । अ॒र्ष॒ ॥परि । हि । स्म । पुरुहूतः । जनानाम् । विश्वा । असरत् । भोजना । पूयमानः । अथ । आ । भर । श्येनभृत । प्रयांसि । रयिम् । तुञ्जानः । अभि । वाजम् । अर्ष ॥pari | hi | sma | puru-hūtaḥ | janānām | viśvā | asarat | bhojanā | pūyamānaḥ | atha | ā | bhara | śyena-bhṛta | prayāṃsi | rayim | tuñjānaḥ | abhi | vājam | arṣa