Sukta 9.87
ऋषिर्विप्रः पुरएता जनानामृभुर्धीर उशना काव्येन । स चिद्विवेद निहितं यदासामपीच्यं गुह्यं नाम गोनाम् ॥
ऋषि॒र्विप्र॑: पुरए॒ता जना॑नामृ॒भुर्धीर॑ उ॒शना॒ काव्ये॑न । स चि॑द्विवेद॒ निहि॑तं॒ यदा॑सामपी॒च्यं१॒॑ गुह्यं॒ नाम॒ गोना॑म् ॥
ṛṣír vípraḥ puraetā́ jánānām ṛbhúr dhī́ra uśánā kā́vyena | sá cíd viveda níhitaṃ yád āsām apī́cyaṃ gúhyaṃ nā́ma gónām ||
A seer, a luminous thinker, leader before the peoples—fashioner, steadfast, desiring by the poet’s art—he discovered even that which was hidden: the secret inward name of the Rays of Light.
ऋषिः॑ । विप्रः॑ । पु॒रः॒ऽए॒ता । जना॑नाम् । ऋ॒भुः । धीरः॑ उ॒शना॑ । काव्ये॑न । सः । चि॒त् । वि॒वे॒द॒ । निऽहि॑तम् । यत् । आ॒सा॒म् । अ॒पी॒च्य॑म् । गुह्य॑म् । नाम॑ । गोना॑म् ॥ऋषिः । विप्रः । पुरःएता । जनानाम् । ऋभुः । धीरः उशना । काव्येन । सः । चित् । विवेद । निहितम् । यत् । आसाम् । अपीच्यम् । गुह्यम् । नाम । गोनाम् ॥ṛṣiḥ | vipraḥ | puraḥ-etā | janānām | ṛbhuḥ | dhīraḥ | uśanā | kāvyena | saḥ | cit | viveda | ni-hitam | yat | āsām | apīcyam | guhyam | nāma | gonām