Sukta 9.87
स्वायुधः पवते देव इन्दुरशस्तिहा वृजनं रक्षमाणः । पिता देवानां जनिता सुदक्षो विष्टम्भो दिवो धरुणः पृथिव्याः ॥
स्वा॒यु॒धः प॑वते दे॒व इन्दु॑रशस्ति॒हा वृ॒जनं॒ रक्ष॑माणः । पि॒ता दे॒वानां॑ जनि॒ता सु॒दक्षो॑ विष्ट॒म्भो दि॒वो ध॒रुण॑: पृथि॒व्याः ॥
svāyudháḥ pavate devá índur aśastihā́ vṛ́janaṃ rákṣamāṇaḥ | pitā́ devā́nāṃ janitā́ su-dákṣo viṣṭambhó divó dharuṇaḥ pṛthivyā́ḥ ||
Armed with his own power the divine drop flows, slaying the unpraiseworthy and guarding the ordered field. Father of the gods, begetter with perfect skill, he is the firm support of heaven and the sustaining foundation of earth.
सु॒ऽआ॒यु॒धः । प॒व॒ते॒ । दे॒वः । इन्दुः॑ । अ॒श॒स्ति॒ऽहा । वृ॒जन॑म् । रक्ष॑माणः । पि॒ता । दे॒वाना॑म् । ज॒नि॒ता । सु॒ऽदक्षः॑ । वि॒ष्ट॒म्भः । दि॒वः । ध॒रुणः॑ । पृ॒थि॒व्याः ॥सुआयुधः । पवते । देवः । इन्दुः । अशस्तिहा । वृजनम् । रक्षमाणः । पिता । देवानाम् । जनिता । सुदक्षः । विष्टम्भः । दिवः । धरुणः । पृथिव्याः ॥su-āyudhaḥ | pavate | devaḥ | induḥ | aśasti-hā | vṛjanam | rakṣamāṇaḥ | pitā | devānām | janitā | su-dakṣaḥ | viṣṭambhaḥ | divaḥ | dharuṇaḥ | pṛthivyāḥ