Sukta 9.87
प्र तु द्रव परि कोशं नि षीद नृभिः पुनानो अभि वाजमर्ष । अश्वं न त्वा वाजिनं मर्जयन्तोऽच्छा बर्ही रशनाभिर्नयन्ति ॥
प्र तु द्र॑व॒ परि॒ कोशं॒ नि षी॑द॒ नृभि॑: पुना॒नो अ॒भि वाज॑मर्ष । अश्वं॒ न त्वा॑ वा॒जिनं॑ म॒र्जय॒न्तोऽच्छा॑ ब॒र्ही र॑श॒नाभि॑र्नयन्ति ॥
prá tu drava pári kośáṃ ní ṣīda nṛ́bhiḥ punānó abhí vā́jam arṣa | aśváṃ na tvā vājínaṃ márjayanto ’cchā bárhī raśanā́bhir nayanti ||
Run forth; circle the vessel and sit down: purified by the human powers, flow towards plenitude of force. As they groom a swift horse, so they cleanse thee, the energised one, and lead thee to the sacred seat with guiding reins.
प्र । तु । द्र॒व॒ । परि॑ । कोश॑म् । नि । सी॒द॒ । नृऽभिः॑ । पु॒ना॒नः । अ॒भि । वाज॑म् । अ॒र्ष॒ । अश्व॑म् । न । त्वा॒ । वा॒जिन॑म् । म॒र्जय॑न्तः । अच्छ॑ । ब॒र्हिः । र॒श॒नाभिः॑ । न॒य॒न्ति॒ ॥प्र । तु । द्रव । परि । कोशम् । नि । सीद । नृभिः । पुनानः । अभि । वाजम् । अर्ष । अश्वम् । न । त्वा । वाजिनम् । मर्जयन्तः । अच्छ । बर्हिः । रशनाभिः । नयन्ति ॥pra | tu | drava | pari | kośam | ni | sīda | nṛ-bhiḥ | punānaḥ | abhi | vājam | arṣa | aśvam | na | tvā | vājinam | marjayantaḥ | accha | barhiḥ | raśanābhiḥ | nayanti