Sukta 9.86
दिवो न सानु स्तनयन्नचिक्रदद्द्यौश्च यस्य पृथिवी च धर्मभिः । इन्द्रस्य सख्यं पवते विवेविदत्सोमः पुनानः कलशेषु सीदति ॥
दि॒वो न सानु॑ स्त॒नय॑न्नचिक्रद॒द्द्यौश्च॒ यस्य॑ पृथि॒वी च॒ धर्म॑भिः । इन्द्र॑स्य स॒ख्यं प॑वते वि॒वेवि॑द॒त्सोम॑: पुना॒नः क॒लशे॑षु सीदति ॥
divó ná sā́nu stanáyann acikradad dyáuś ca yásya pṛthivī́ ca dhárma-bhiḥ | índrasya sákhyaṃ pavate vi-vévidat sómaḥ punānáḥ kalaśéṣu sīdati ||
Like a heavenly summit thundering, he cries out; by his laws heaven and earth stand ordered. Discovering and winning Indra’s comradeship, he flows: Soma, being purified, settles into the cups—so the force of luminous victory may inhabit the prepared vessel.
दि॒वः । न । सानु॑ । स्त॒नय॑न् । अ॒चि॒क्र॒द॒त् । द्यौः । च॒ । यस्य॑ । पृ॒थि॒वी । च॒ । धर्म॑ऽभिः । इन्द्र॑स्य । स॒ख्यम् । प॒व॒ते॒ । वि॒वेवि॑दत् । सोमः॑ । पु॒ना॒नः । क॒लशे॑षु । सी॒द॒ति॒ ॥दिवः । न । सानु । स्तनयन् । अचिक्रदत् । द्यौः । च । यस्य । पृथिवी । च । धर्मभिः । इन्द्रस्य । सख्यम् । पवते । विवेविदत् । सोमः । पुनानः । कलशेषु । सीदति ॥divaḥ | na | sānu | stanayan | acikradat | dyauḥ | ca | yasya | pṛthivī | ca | dharma-bhiḥ | indrasya | sakhyam | pavate | vi-vevidat | somaḥ | punānaḥ | kalaśeṣu | sīdati