Sukta 9.86
राजा समुद्रं नद्यो वि गाहतेऽपामूर्मिं सचते सिन्धुषु श्रितः । अध्यस्थात्सानु पवमानो अव्ययं नाभा पृथिव्या धरुणो महो दिवः ॥
राजा॑ समु॒द्रं न॒द्यो॒३॒॑ वि गा॑हते॒ऽपामू॒र्मिं स॑चते॒ सिन्धु॑षु श्रि॒तः । अध्य॑स्था॒त्सानु॒ पव॑मानो अ॒व्ययं॒ नाभा॑ पृथि॒व्या ध॒रुणो॑ म॒हो दि॒वः ॥
rājā samudráṃ nádyo ví gāhate ’apām ū́rmiṃ sacate síndhuṣu śritáḥ | ádhy asthāt sā́nu pávamāno avyáyaṃ nā́bhā pṛthivyā́ dharuṇó mahó diváḥ ||
As a king, he enters the ocean as rivers enter it; set in the streams, he companions the wave of the waters. The self-purifying one has mounted the imperishable summit: the navel of the earth, the mighty foundation of heaven—establishing the worlds upon a stable truth.
राजा॑ । स॒मु॒द्रम् । न॒द्यः॑ । वि । गा॒ह॒ते॒ । अ॒पाम् । ऊ॒र्मिम् । स॒च॒ते॒ । सिन्धु॑षु । श्रि॒तः । अधि॑ । अ॒स्था॒ट् सानु॑ । पव॑मानः । अ॒व्यय॑म् । नाभा॑ । पृ॒थि॒व्याः । ध॒रुणः॑ । म॒हः । दि॒वः ॥राजा । समुद्रम् । नद्यः । वि । गाहते । अपाम् । ऊर्मिम् । सचते । सिन्धुषु । श्रितः । अधि । अस्थाट् सानु । पवमानः । अव्ययम् । नाभा । पृथिव्याः । धरुणः । महः । दिवः ॥rājā | samudram | nadyaḥ | vi | gāhate | apām | ūrmim | sacate | sindhuṣu | śritaḥ | adhi | asthāṭ | sānu | pavamānaḥ | avyayam | nābhā | pṛthivyāḥ | dharuṇaḥ | mahaḥ | divaḥ